|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.250. अध्यायः 250
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति वनस्थधर्मप्रतिपादकव्यासवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-250-0x(6250)(75477)
प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिभिः।
तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर॥
`व्यासेन कथितं पूर्वं पुत्राय सुमहात्मने।' 12-250-1(75478)
व्यास उवाच। 12-250-2x(6251)
क्रय----त्ववधृयैनां तृतीयां वृत्तिमुत्तमाम्।
संयोगव्रत----वानप्रस्थाश्रमौकसाम्॥ 12-250-2(75479)
श्रूयतां पुत्र भद्रं ते सर्वलोकाश्रमात्मनाम्।
प्रेक्षापूर्वं यदा पत्त्येद्वलीपलितमात्मना॥ 12-250-3(75480)
अपत्यस्यैव चापण्यं वनमेव तदाऽऽश्रयेत्॥ 12-250-4(75481)
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत्।
तानेवाग्नीन्पस्त्विरेद्यजमानो दि--कसः॥ 12-250-5(75482)
निय------नियताराहः षष्ठभक्तो ---त्तवान।
तदाग्रहात्रं तो --- यज्ञाङ्गां व सर्वशः॥ 12-250-6(75483)
अवैकृष्टं व्रीहियव नीवारे विघसानि च।
हवींषि संप्रयच्छेत मखेष्वत्रापि पञ्चसु॥ 12-250-7(75484)
वानप्रस्खाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः।
सद्यः प्रक्षालकाः केचित्केचिन्मासिकसंचयाः॥ 12-250-8(75485)
वार्षिकं संचयं केचित्केतिद्द्वादशवार्षिकम्।
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव वा॥ 12-250-9(75486)
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः।
ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः॥ 12-250-10(75487)
भूमौ विपरिवर्तन्ते तिष्ठन्ति प्रपदैरपि।
स्थानासनैर्वर्तयन्ति स वनेष्वभिषिञ्चते॥ 12-250-11(75488)
दन्तोलूखलिकाः केचिदश्मकुट्टास्तथा परे।
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत्॥ 12-250-12(75489)
कृष्णपक्षे पिबन्त्यन्ये भुञ्जते वा यथागतम्।
मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः॥ 12-250-13(75490)
वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः।
एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम्॥ 12-250-14(75491)
चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः।
वानप्रस्थाद्गृहस्थाच्च ततोऽन्यः संप्रवर्तते।
अस्मिन्नेव युगे तात वितैस्तत्वार्थदर्शिभिः॥ 12-250-15(75492)
अगस्त्यः सप्तऋषयो मधुच्छन्दोऽधमर्षणः।
सांकृतिः सुदिवातण्डिर्यथावासो कृतश्रमः॥ 12-250-16(75493)
अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिदुऽ।
बलवान्कर्णनिर्वाकः शून्यपालः कृतश्रम-----।
एते धर्मे सुविद्वांसस्ततः स्वर्गमुसागमन॥ 12-250-17(75494)
तात प्रत्यक्षधर्माणस्तथा काथवारा गणाः।
ऋषीणामुग्रतपसां धर्मनैपुणेदर्शिनाम्॥ 12-250-18(75495)
अन्ये चापरिमेयाश्च ब्राह्मणा वनमश्रितताः।
वैखातसा वालखिल्याः सैकताच्च तथा परे॥ 12-250-19(75496)
कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः।
गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः॥ 12-250-20(75497)
अनक्षत्रास्त्वनाधृष्या दृश्यते ज्योतिषां गणाः।
जरया च परिद्यूना व्याधिना च प्रपीडिताः॥ 12-250-21(75498)
चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत्।
साद्यस्कां संनिरुप्येष्टिं सर्ववेदसदक्षिणाम्॥ 12-250-22(75499)
आत्मयाजी सोऽत्मरतिरात्मक्रीडात्मसंश्रयः।
आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान्॥ 12-250-23(75500)
साद्यस्कांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा।
यदैव याजिनां यज्ञादात्मनीज्या प्रवर्तते॥ 12-250-24(75501)
त्रींश्चैवाग्नींस्त्यजेत्सम्यगात्मन्येवात्ममोक्षणात्।
प्राणेभ्यो यजुषां पञ्च षट् प्राश्नीयादकुत्सयन्॥ 12-250-25(75502)
केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः।
आश्रमादाश्रमं पुण्यं पूतो गच्छति कर्मभिः॥ 12-250-26(75503)
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्द्विजः।
लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते॥ 12-250-27(75504)
सुशीलवृत्तो व्यपनीतकल्मषो
नचेह नामुत्र च कर्तुमीहते।
अरोपमोहो गतसन्धिविग्रहो
भवेदुदासीनवदात्मविन्नरः॥ 12-250-28(75505)
यमेषु चैवानुगतेषु न व्यथे
त्स्वशास्त्रमूत्राहुतिमन्त्रविक्रमः।
भवेद्यथेष्टा गतिरात्मयाजिनो
न संशयो धर्मपरे जितेन्द्रिये॥ 12-250-29(75506)
ततः परं श्रेष्ठमतीव सद्गुणै
रधिष्ठितं त्रीनधिवृत्तिमुत्तमम्।
चतुर्थमुक्तं परमाश्रमं शृणु
प्रकीर्त्यमानं परमं परायणम्॥ ॥ 12-250-30(75507)
इति श्रीमन्महाभारते शान्तिपर्वणि मोश्रधर्मपर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः॥ 250॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-250-2 एवां गृहस्थवृत्तिमवधूय तिरस्कृत्य कां तृतीयां कापोतीं वृत्तिमपि। संयोगः सहधर्मचारिणीसंयोगस्तत्र यद्व्रतं तेन खिन्नानाम्। वानप्रस्थाश्रम ओक व्याश्रयो येषां तेषां वृत्तिः श्रूयतामिति द्वयोः संबन्धः॥ 12-250-3 सर्वे लोका आश्रमाश्चाऽऽत्मायेषाम्। संविभागशमादिमयत्वात् सर्वाश्रमफलमत्रैवान्तर्भूतामित्यर्थः॥ 12-250-4 विग्रहं तु यदा पश्येदिति ध. पाठः॥ 12-250-6 षष्ठभुक्त इति ध. पाठः॥ 12-250-7 अत्रापि वनेपि॥ 12-250-10 शाश्वतामृतभोजिन इति ध. पाठः॥ 12-250-15 चतुर्थश्चतुर्थाश्रमे विहित औपनिषदः शान्त्यादिर्धर्मः साधारणः सर्वेष्वाश्रमेषु। अन्योऽसाधारणः। सर्वार्थदर्शिभिरिति ध. पाठः॥ 12-250-16 सांकृतिश्च सुदीप्तार्चिर्यवक्रीतः सुतश्रमः इति ध. पाठः॥ 12-250-17 चले वाकश्च निर्वाक इति ट.ध. पाठः॥ 12-250-21 अनक्षत्राः नक्षत्रग्रहताराभ्योऽन्ये॥ 12-250-22 सर्ववेदसदक्षिणां सर्वस्वदक्षिणाम्॥ 12-250-23 आत्मयाजी जीवच्छ्राद्धादिकृत्। आत्मक्रीडश्चाऽऽत्मसंश्रयश्च नतु स्त्र्यादिक्रीडो राजाद्याश्रयः॥ 12-250-24 साद्यस्कान् सद्यएव क्रियन्ते तान् ब्रह्मयज्ञादीन् तावद्यजेत्। यदैव यस्मिन्नेव काले याजिनां यज्वनां यज्ञात् कर्ममयादन्या आत्मनीज्या आत्मयज्ञ प्रवर्तते तावदेव तान् कुर्यादित्यर्थः॥ 12-250-25 यज्ञः सदैवात्मनि वर्तत ट. ध. पाठः॥ 12-250-26 वाप्य वापयित्वा॥ 12-250-29 स्वस्य संन्यासविधेः शास्त्रं तत्रस्थं सूत्रं आहुतिमन्त्रश्च तत्रोभयात्रापि विक्रमः पराक्रमो यस्य स तथा॥ 12-250-30 त्रीनाश्रमानपेक्ष्याधिष्ठितमधिकत्वेन स्थितम्। यतोऽधिवृत्तिमधिका शमाद्यात्मिका वृत्तिर्यस्मिंस्तम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|